|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.16. अध्यायः 016
Mahabharata - Sabha Parva - Chapter Topics
युधिष्ठिर्जुनयोर्भाषणम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
युधिष्ठिर उवाच॥
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्॥ 2-16-1(11981)
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्॥ 2-16-2(11982)
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्।
यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम्॥ 2-16-3(11983)
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते।
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम॥ 2-16-4(11984)
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम।
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन।
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः॥ 2-16-5(11985)
वैशम्पायन उवाच॥ 2-16-6x(1405)
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी।
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत॥ 2-16-6(11986)
अर्जुन उवाच। 2-16-7x(1406)
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्।
प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्। 2-16-7(11987)
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते। 2-16-8(11988)
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति।
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते॥ 2-16-9(11989)
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये।
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून्॥ 2-16-10(11990)
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति।
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्॥ 2-16-11(11991)
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते॥ 2-16-12(11992)
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः॥ 2-16-13(11993)
दैन्यं यथा बलवति तथा मोहो बलान्विते।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना॥ 2-16-14(11994)
जरासन्धिविनाशं च राज्ञां च परिरक्षणम्।
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत्॥ 2-16-15(11995)
अनारम्भे हि नियतो भवेदगुणनिश्चयः।
गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम्॥ 2-16-16(11996)
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्।
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्॥ ॥ 2-16-17(11997)
इति श्रीमन्महाभारते सभापर्वणि षोडशोऽध्यायः॥ 16॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|